परिच्छेदः ७८
वीरयोद्धुरात्मगौरवम्
रे रे सपत्नसंघात मा तिष्ठ स्वामिनः पुरः।
स योद्धुं यैः पुराहूतः साम्प्रतं ते चिताश्मसु॥१॥
कुन्ताघातो गजे मोधोऽग्यस्ति गौरवदायकः।
शशे किन्तु शराघातो सालोऽपि न मानदः॥२॥
नूनं तदेव वीरत्वं येन ह्याक्रम्यते रिपुः।
शरणागतवात्सल्य रूपञ्चास्त्यस्य सुन्दरम्॥३॥
स्वकुन्तं करिदेहान्तः प्रवेश्यान्यं गवेषयन्।
निष्कासयँश्च गावस्थं स्मयते स भटाग्रणीः॥४॥
रिपुप्रासप्रहाराच्चेज्जातं नेत्रनिमीलनम्।
तर्हि ख्यातस्य वीरस्य का लज्जा स्यादतः परा॥५॥
न पश्यन्ति यदा शूराः स्वाङ्गमालीढशोभितम्।
तदा दिनानि मन्यन्ते व्यर्थानि क्षीणचेतसः॥६॥
प्राणेषु त्यक्तमोहः सन् कीर्ति लोकान्तसंश्रिताम्।
ईप्सते यस्तदंघ्रिस्थो निगडोऽपि सुशोभते॥७॥
यस्य नास्ति भयं मृत्योर्युद्धे स सुभटोत्तमः।
आतङ्कादपि सेनान्यो भटनीतिं न मुश्चति॥८॥
अभीष्टकार्यसिद्धयर्य वीरा उद्योगशालिनः।
यदि प्राणैर्वियुक्ताः स्युस्तर्हि के दोषवादिनः॥९॥
यं समीक्ष्य भवेत् स्वामी वाष्पपूर्णाकुलेक्षणः।
भिक्षया चाटुकारैश्च तं मृत्युं प्रार्जयेद् भटः॥१०॥