पृष्ठ:कुरल-काव्य.pdf/१०४

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
[७९
 

 

परिच्छेदः ७९
मित्रता

किमस्ति कठिनं लोके शिष्टैः श्लाघ्या सुमित्रता।
तत्समो दृढसन्नाहो यतो नास्ति महीतले॥१॥
सतां भवति मैत्री तु ज्योत्स्नाचन्द्रकलासमा।
असताञ्च पुनः सैव तमिस्नेन्दुकलानिमा॥२॥
मैत्री भवति गुण्यानां श्रुतिस्वाध्यायसनिभा।
उत्तरोत्तरवृद्धा हि द्योतन्ते यत्र सद्गुणाः॥३॥
नैवामोदविनोदार्थ मित्रताद्रियते बुधैः।
अपि भर्त्सनया मित्रं मार्गस्थं क्रियते तया॥४॥
सदैव सहगामित्वं भूयोभूयश्च दर्शनम्।
सख्यस्य वर्धने नैव कारणं किन्तु मानसम्॥५॥
विनोदकारिणी गोष्टी नैवास्ते मित्रतागृहम्।
मैत्री प्रेमामृतोद्धूता हृदयाह्लादकारिणी॥६॥
कापथावहिराकृष्य नियुड्क्ते न्यायकर्मणि।
उपतिष्ठते च दुःखेषु यत् तन्मित्रं प्रगण्यते॥७॥
गृह्णीतोऽरं यथा पाणी वायुविच्युतमंशुकम्।
विपन्नमित्रकार्याणि सुसखः कुरुते तथा॥८॥
आस्थानं कुत्र सख्यस्य यत्रास्ते हृदयकता।
उभे च यत्र चेष्टेते मिलित्वा श्रेयसे मिथः॥९॥
उपकारप्रसंख्यानं यत्रास्ति प्रीतिधारिणाम्।
दारिद्रयं तत्र गर्वोक्त्या गाढस्नेहस्य घोषणा॥१०॥