पृष्ठ:कुरल-काव्य.pdf/१०७

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
८२]
 

 

परिच्छेदः ८२
विघातिका मैत्री

विघातिनी तयोमैंत्री यौ प्रदर्शयतो बहिः।
सख्यं किन्तु ययोः किश्चिद् वर्तते नैव मानसे॥१॥
पतन्ति पदयोः स्वार्थात् स्वार्थाभावाच्च दूरगाः।
ये धूर्तास्ते हि हातव्यास्तत्सख्येनापि को गुणः॥२॥
अस्मात् सख्युरियाँल्लामः स्यादित्येवं विचारयन्।
नरो भवति चौराणां वेश्यानाञ्च कुपंक्तिषु॥३॥
पलायते यथा युद्धात् पातयित्वाश्ववारकम्।
कुत्स्यसप्तिस्तथा[१] मायी का सिद्धिस्तस्य सख्यतः॥४॥
विश्वस्तं सुहृदं काले मुञ्चता सह मायिना।
सख्यस्थापनमश्रेयः श्रेयान् ननु विपर्ययः॥५॥
प्राज्ञैः सम विरोधोऽपि वर मूढस्य संगतेः।
सादृश्याय यतो नूनं वर्द्धन्ते गुणराशयः॥६॥
स्वार्थिनां चाटुकर्तृणां सौहार्दाद् वैरिणामहो।
असह्यापि घृणा साध्वी शतगुण्या मता बुधैः॥७॥
तव पाणौकृते कार्य योऽस्ति बाधाविधायकः।
किञ्चितं प्रति मा ब्रूहि मैत्री मुश्च शनैः शनैः॥८॥
अन्यदेव खलु ब्रूते कुरुते चान्यदेव यः।
स्वप्नेऽप्यशुभरूपास्ति तेनामा सख्यकल्पना॥९॥
एकान्ते स्तौति यो नित्यं बहिर्निन्दति दुष्टधीः।
वृत्तिरेवंविधा यस्य स ह्युपेक्ष्यो विमर्शिना॥१०॥


  1. दुष्ढाश्व।