परिच्छेदः ८३
कपटमैत्री
मैत्रीप्रदर्शनं शत्रोः केवलं स्थाणुयोजना[१]।
समये त्वापि[२] यत्रासौ ताडयेद्धातुसन्निभम्॥१॥
हृदये यस्य दुर्भावो बाह्ये यश्च सखीयते।
कामिन्या इव तञ्चित्तं क्षणेनैति विरागताम्॥२॥
वरमस्तु महाज्ञानं विशुद्धिर्वापि मानवे।
शत्रोश्चित्ते तथापीह घृणात्यागोऽस्त्यसंभवः॥३॥
बहिर्हृष्यति यो मायी वेष्टि चान्तर्दुराशयः।
भीतो भव ततो धूर्ताद् यदि प्राणानपेक्षसे॥४॥
त्वयामा हृदयं येषां विद्यते नैव सर्वथा।
विश्वासस्तेषु नो कार्यों वदत्स्वपि प्रियं वचः॥५॥
अहो नूनं क्षणेनैव परिपन्थी प्रकाशते।
सखेव मधुरालापं कुर्वन्नपि मुहुर्मुहुः॥६॥
प्रोह्वोऽपि च रिपुनैंव विश्वास्यो दीर्घदर्शिना।
धनुषो हि विनम्रत्वमनिष्टस्यैव सूचकम्॥७॥
कृताञ्जली रुदँश्चापि प्रत्येतव्यो न वैरकृत्।
शस्त्रं संभाव्यते तस्य निगूढं करमध्यके॥८॥
बाहृे नौति विविक्ते च घृणार्थ हसति ध्रुवम्।
बहिः संस्तुत्य तं काले मर्ढन्मित्रतां गतम्॥९॥
संघित्सुः[३] खल्वरातिश्चेदशक्तश्च स्वयं बले।
सन्धिस्तेन समं कार्यः कृत्वा च भव दूरगः॥१०॥