पृष्ठ:कुरल-काव्य.pdf/११०

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।

 

परिच्छेदः ८५
अहङ्कारपूर्णा मूढता

दारिद्रथेष्वतिदारिद्रयं बुद्धेरेव विहीनता।
निर्धनित्वं क्षयं याति यतो योग्यप्रयत्नतः॥१॥
स्वेच्छया यदि मूढात्मा दत्ते किश्चिदुपायनम्।
सौभाग्यं तत्र पात्रस्य हेतुरन्यो न कश्चन॥२॥
मूर्खः स्वदोषसंघातैः स्वयं यादृग् विपद्यते।
तादृम् विपद्दयुतों नैव क्रियते क्रूरवैरिभिः॥३॥
सहस्रबुद्धिमात्मानं वेत्ति यो गर्विताशयः
नूनं स एव मूढात्मा बोद्धव्यो विदुषां वरैः॥४॥
अज्ञातविषयज्ञानं दर्शयित्वा हि मन्दधीः।
विज्ञातविषयज्ञाने संशीतिं जनयत्यहो॥५॥
मूढानां हि निजाङ्गेषु को गुणः पटधारणात्।
अस्त्यसंधृतदोषाणां मानसे यदि संस्थितिः॥६॥
भेदं कमपि यः क्षुद्रः स्वस्मिन्नेव न सीमितम्।
कर्तुं शक्रोति तन्मूर्ध्नि वर्तते विषदां चयः॥७॥
नो शृणोति न चावैति सुनीर्ति यो दुराग्रही।
स हि मूढः स्वबन्धूनां दुःखदोऽस्ति निरन्तरम्॥८॥
प्रबोधनाय मूर्खस्य यतते सोऽपि बालिशः।
शुद्धं नावैति मूढोऽन्यं मार्ग ह्यात्मविनिश्चितात्॥९॥
अपि लोकमतं वस्तु यो दम्भी नैव मन्यते।
स भूतो भूमिसंचारी ज्ञायते सर्वमानवैः॥१०॥