पृष्ठ:कुरल-काव्य.pdf/११५

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
९०]
 

 

परिच्छेदः ९०
महतामवज्ञात्यागः

यो वाञ्छति निजं श्रेयः स साधोरपमानतः।
आत्मानं सततं रक्षेन् महायत्नेन शुद्धधीः॥१॥
यः करिष्यति मूढात्मा न्यक्कारं हि महात्मनाम्।
पतन्ति मूर्धिन तच्छक्त्या विपदो बीतसंख्यकाः॥२॥
अनादृत्य हितान् गच्छ सर्वनाशं यदीच्छसि।
विरोधी भव तेषाञ्च यच्छक्तिः सर्वनाशिनी॥३॥
सबलं शक्तिसम्पन्नं योऽवजानाति रोषतः।
स स्वजीवनधाताय मृत्युमाह्वयते कुधीः॥४॥
बलिनां भूपतीनाञ्च क्रोधं संवर्धयन्नरः।
पृथिव्यां क्वापि गत्वापि सुखवान् नैव जायते॥५॥
दहनादपि संरक्षा कदाचित् संभवत्वहो।
अरक्ष्याः सर्वथा किन्तु मन्ये साध्ववहेलिनः॥६॥
आत्मशक्तौ महाशूराः क्रुद्धा यदि महर्षयः।
कुतो हि जीवनानन्दः का सिद्धिश्च समृद्धिषु॥७॥
विशालं दृढमूलञ्च राज्यं यस्य स भूमिपः।
उच्छिद्यते यतेः क्रोधाद् ऋषयो ह्यद्रिसन्निभाः॥८॥
ऋषयो व्रतसंशुद्धा यदि स्युर्वक्रदृष्टयः।
आस्तामन्यत् स सक्रोऽपि स्वपदात् प्रच्युतो भवेत्॥९॥
आत्मशक्तेः परा देवाः क्रुद्धा यदि महर्षयः।
नरस्य कुत्र रक्षास्ति श्रित्वापि बलिनो जनान्॥१०॥