पृष्ठ:कुरल-काव्य.pdf/११७

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
९२]
 

 

परिच्छेदः ९२
वेश्या

धनाय नानुरागाय नरेभ्यः स्पृहयन्ति याः।
तासां मृषाप्रियालापाः केवलं दुःखहेतवः॥१॥
बदन्ति मधुरा वाचः परं ध्यानं धनागमे।
पण्यस्त्रीणां मनोभावं ज्ञात्वैवं भव दूरगः॥२॥
कपटप्रणयं धूर्ता दर्शयन्सी मुहुर्मुहुः।
विलासिनी महावित्तमालिङ्गत्युरसा विटम्॥
परं तस्य समाश्लेषस्तथा तस्या वभाति सः।
कुविष्टिबैं यथाऽज्ञातं स्पृशेत् संतमसे शवम्॥३॥ (युग्मम्)
विशुद्धकार्यसंलग्नाः सद्व्रताः पुरुषोत्तमाः।
कलङ्कितं न कुर्वन्ति निजाङ्गं वारयोषिता॥४॥
येषामगाधपाण्डित्यं बुद्धिश्चापि सुनिर्मला
रूपाजीचाङ्गसंस्पर्शान् मलिना न भवन्ति ते॥५॥
न गृह्णन्ति करं तस्या जनाः स्वहितकारिणः।
विक्रीणाति निजं रूपं स्वैरिणी यातिचश्चला॥६॥
अन्वेषयन्ति तां भुक्तामज्ञा एव पृथग् जनाः।
देहेन स्वजते किन्तु रमतेऽन्यत्र तन्मनः॥७॥
येषां विमर्शशून्याधीमन्यन्ते ते हि लम्पटाः।
स्वर्वध्वा इव वेश्यायाः परिष्वङ्गं सुधामयम्॥८॥
गणिका कृतशृङ्गारा नूनं निरयसनिभा।
तत्प्रणालश्च तदाहुर्यत्र मञ्जन्ति कामिनः॥९॥
दुरोदरं सुरापानं बहुसक्ता नितम्बिनी।
भाग्य येषां विपर्यस्तं तेषामानन्दहेतवः॥१०॥