परिच्छेदः ९३
सुरापानत्यागः
मद्यपाने रतिर्यस्य नास्ति तस्माद् रिपोर्भयम्।
अर्जितं गौरवं तस्य तत एव विनश्यति॥१॥
सुरापानं न कर्तव्यं केनापि हितमिच्छता।
पिपासा यदि केषाश्चित् कर्तव्यं वेदनार्यता॥२॥
प्रमत्तवदनं वीक्ष्य तन्मातैव जुगुप्सते।
का कथा तर्हि भद्राणां दृष्ट्वा तस्य मुखाकृतिम्॥३॥
सुरापानकदभ्यासो यस्य पुंसः कुसंगतः।
पराङ्मुखी ततो याति सुलजा मत्तकाशिनी[१]॥४॥
अतिलोकमिदं मौर्ख्यं सौभाग्यध्वंसकारणम्।
मूल्यं दत्त्वा यदादचे संमोहस्मृतिशून्यते॥५॥
विष पिबन्ति ते नित्यं मदिरापरनामकम्।
महानिद्राभिभूतास्ते सन्त्येव मृतसन्निभाः॥६॥
सुगृढापि सुरापीता जनयत्येव विभ्रमान्।
तेभ्योऽधिगम्य शौण्डत्वं ग्लायन्ति पार्श्ववर्तिनः॥७॥
हालापलापं मा कुर्या मद्यपानरतोऽपि सन्।
एवं कृते यतोऽलीकपापमन्यच्च योज्यते॥८॥
प्रमत्स्य हिताख्यानं केवलं कालयापनम्।
उकालोको[२] यथा मोघो जलमग्नगवेषणे॥९॥
मसस्य कुगतिं शौण्डः संपश्यति मदात्यये
जातां तामेव स्वस्यापि कथं नानुमिनोति हा॥१०॥