पृष्ठ:कुरल-काव्य.pdf/१२०

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।

 

परिच्छेदः ९५
औषधम्

वातपित्तकफाः काये गुणाः प्रोक्ता महर्षिभिः।
न्यूनाधिका यदा सन्ति तदा ते रोगकारकाः॥१॥
भुक्तान्ने जीर्णतां याते यदि भुञ्जीत मानवः।
आवश्यकं कथं तस्य भवेद् भैषज्यसेवनम्॥२॥
शान्त्या सदैव भाक्तव्यं भुक्त्वा च परिपाचयेत्।
पाकान्ते च पुनर्भुक्तिः प्रक्रमश्चिरजीविनः॥३॥
भुक्तं यावन्न जीर्ण चेत् तावद् विरम भोजनात्।
परिपाके पुनर्जाते भोक्तव्यं सात्म्यमात्मनः॥४॥
पथ्यान् रुचिकरान् वृष्यान् यो भुङ्क्ते मोदसंभृतः।
दुष्टा देहव्यथा तस्य कदाचिन्नैव जायते॥५॥
यथा मृगयते स्वास्थ्यं रिक्तोदरसुभोजिनम्।
तथा मार्गयते व्याधिर्मात्राधिक्येन खादकम्॥६॥
जठराग्निमनादृत्य यो भुड्क्ते रसलोलुपः।
असंख्यैर्विविधै रोगैर्ग्रस्यते स सदा कुधीः॥७॥
रोगो विचार्यतां पूर्वमुत्पत्तिं तदनन्तरम्।
निदानश्च समीक्ष्यैव पश्चात् कुर्यात् प्रतिक्रियाम्॥८॥
को रोगः कीदृशो रोगी कः कालो वर्ततेऽधुना।
इति सर्व समीक्ष्यैव विदध्याद् भेषजं भिषक्॥९॥
भिषग भैषज्यविक्रेता भेषजं रोगपीडितः।
चत्वारः सन्ति साफल्ये चिकित्सायाः सुहेतवः॥१०॥