पृष्ठ:कुरल-काव्य.pdf/१२३

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
९८]
 

 

परिच्छेदः ९८
महत्त्वम्

उच्चकार्यचिकीर्षैव महत्त्वं परिभाष्यते।
बिना तेन भवत्येषा क्षुद्रतानामधारिणी॥१॥
जन्मना सदृशाः सर्वे मानवाः सन्ति भूतले।
कीतौं किन्तु महान् भेदस्तेषां कार्यप्रभेदतः॥२॥
कुलीनोऽपि कदाचारात् कुलीनो नैव जायते।
निम्नजोऽपि सदाचारान् न निम्नः प्रतिभासते॥३॥
निर्व्यजया बहिर्वृत्या विशुद्धथा चात्मनः सदा।
महत्त्वं रक्ष्यते पुंसा यथाशीलं कुलस्त्रिया॥४॥
साधनानां प्रयोक्तारो महान्तो हि निसर्गतः
भवन्त्यशक्यकार्याणां स्रष्टारोऽपि स्वकौशलात्॥५॥
लघूनां स्वल्पबुद्धीनां सर्ग एव तथाविधः।
यत् प्रतिष्ठा न पूज्यानां न चेच्छा तत्कृपाप्तये॥६॥
सम्पत्तिः प्राप्यते काचिद् यदि क्षुद्रैः सुदैवतः।
मानप्रदर्शनं तेषां निस्सीम जायते ततः॥७॥
नीचैर्वृत्तिर्महत्तायां परं नैव प्रदर्शनम्।
भवतीति सुविख्यातं क्षुद्रता विश्वघोषिका॥८॥
महतां लघुभिः सार्धं व्यवहारो दयान्वितः।
स्निग्धश्च जायते किन्तु क्षुद्रो मूर्त इव स्मयः॥९॥
उदात्ताः परदोषाणां निसर्गादुपगूहकाः।
अनुदात्तोश्च विद्यन्ते परच्छिद्रगवेषकाः॥१०॥