पृष्ठ:कुरल-काव्य.pdf/१२४

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
[९९
 

 

परिच्छेदः ९९
योग्यता

कार्यस्वरूपमालोच्य योग्यतायै समाहिताः।
कर्तव्यमेव तत्सर्व मन्यन्ते यद्गुणास्पदम्॥१॥
सद् वृत्तमेव भद्राणां सौन्दर्य सुमनोहरम्।
देहरूपं परं तत्र नास्ति वैचित्र्यकारणम्॥२॥
दाक्षिण्यं विश्ववन्धुत्वं लज्जा सूनृतगृह्यता[१]
गोपनञ्चान्यदोषाणां सद् वृत्तस्तम्भपञ्चकम्॥३॥
महर्षीणां यथा धर्मः सर्वसत्वानुकम्पनम्।
भद्राणाश्च तथा धर्मों दोषस्यानपकीर्तनम्॥४॥
लघुता नम्रता चापि बलिनामेव सद्धले।
जयार्थं ते हि शत्रूणां सतां सन्नाहसन्निभे॥५॥
लघूनामपि योग्यानाभादरो गुणरागतः।
जायते यत्र शाणोऽसौ योग्यतायाः प्रकीर्तितः॥६॥
कोऽर्थस्तस्य महत्येन योग्यस्यापि महामतेः
खलैरपि समं यस्य सद्वृत्तिर्नैव दृश्यते॥७॥
निर्धनत्वं महादोपो गुणराशिविनाशकः।
किन्त्वाचारवतः सोऽपि नालं गौरवहानये॥८॥
विपदां सन्निपातेऽपि सन्मार्गान्न स्खलन्ति थे।
प्रलयान्तेऽपि ते सन्ति सीमान्ला योग्यताम्बुधेः॥९॥
विहाय भद्रतां भद्रा अभद्रा हन्त चेदहो।
मानवानां क्षितिर्भार वोदु नैवाक्षमिध्यत॥१०॥


  1. सत्यपक्षश्रितत।