पृष्ठ:कुरल-काव्य.pdf/१२५

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
१००]
 

 

परिच्छेदः १००
सभ्यता

निर्व्याजचेतसा नित्यं स्वागताय समुद्यताः।
अपूर्वेषु प्रियालापा भवन्ति प्रियदर्शनाः॥१॥
ज्ञानमूलाः सुसंस्कारा हृदये च दयालुता।
चेद् गुणद्वयसम्बन्धाद् हर्षबुद्धिः प्रजायते॥२॥
आकृतौ सति साम्येऽपि न साम्यं मन्यते बुधः।
आचारैश्च विचारैश्च साम्यं वै हर्षदायकम्॥३॥
सन्नीत्या धर्मबुद्धया च लोकानुपकरोति यः।
स्तुवन्ति सुजनास्तस्य प्रकृतिं पुण्यरूपिणीम्॥४॥
उक्तं हास्येऽपि दुर्वाक्यं जनानामस्त्यरुन्तुदम्[१]
दुर्व्यहृतं[२] न कर्तव्यं भद्रैस्तस्माद् रिपावषि॥५॥
सार्वाः सद्गुणसम्पन्ना आर्याः सन्ति महीतले।
दयादाक्षिण्यसम्पूर्ण तेनेदं वर्तते जगत्॥६॥
आचाशत्पतितो नैव शिक्षितोऽपि शुभावहः।
सुव्रश्चनो[३] यथा नैव रणे दण्डाद् बृहत्तरः॥७॥
अनम्रता नरस्यार्यैः सदा सर्वत्र गर्हिता।
अन्यायिनि विपक्षे वा प्रयुक्ताऽपि न शोभते॥८॥
स्मितं न जायते यस्य विस्तृते धरणीतले।
तस्याभाग्यवतो नूनं दिनेऽपि निविडं तमः॥९॥
कुपात्रे निहितं क्षीरं यथैवास्ति निरर्थकम्।
वैफल्यं हि तथा याति वित्तं दुर्जनसमनि॥१०॥


  1. हृदयव्यथक्रम्।
  2. दुर्भाषणम्‌।
  3. लोहघर्षणी।