पृष्ठ:कुरल-काव्य.pdf/१२८

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
[१०३
 

 

परिच्छेदः १०३
कुलोन्नतिः

अहर्निशं श्रमिष्मियामि विना श्रान्तिं करद्वयात्।
नरस्यायं हि संकल्पः कुलोत्कर्षेककारणम्॥१॥
योगक्षेमपरा बुद्धिः श्रमश्च पौरुषान्वितः।
इमे स्तो बंशवृद्धयर्थं समर्थे द्वे हि कारणे॥२॥
कुलोन्नतिं यदा कर्तुं नरो भवति सञ्जितः।
कटिवद्धाः सुरा यान्ति तदग्रे स्वयमव्यथाः॥३॥
येन मुक्तं न चेत्किश्चित् कुलोत्कर्षचिकीर्षया।
स्वल्पमप्यस्तु तत्कार्य सिद्धये किन्तु निश्चितम्॥४॥
अनघैश्चरितैर्नित्यं यः करोति कुलोन्नतिम्।
स उदात्तः सदा मान्यस्तन्मित्रं क्षितिमण्डलम्॥५॥
स वंशो गुरुतां नीतः श्रियि ज्ञाने बले च वा।
यत्र जन्म मनुष्यस्य पौरुषं तस्य पौरुषम्॥६॥
वीरमेव यथा युद्धे प्रहरन्त्यरयो भृशम्।
शक्त स्कन्धौ तथा लोके कुलभारोऽभिगच्छति॥७॥
कुलोन्नतिं चिकीर्षास्तु सर्वे काला हितावहाः।
प्रत्यनीके प्रमादेन कुलपातो विनिश्चितः॥८॥
कुटुम्परक्षिणां कार्य वीक्ष्यैवं धीः प्रजायते।
श्रमार्थमथ दुःखार्थ किमसौ विधिना कृतः॥९॥
यस्य नास्ति कुटुम्बस्य पालकः सत्प्रवन्धकः।
तन्मूले विपदां घातात् पतनं तस्य जायते॥१०॥