परिच्छेदः १०६
याचना
याचतां तान् महाभागान् सन्ति ये साधनान्विताः।
अदानाय यदि व्याजं कुर्वते ते हि दोषिणः॥१॥
अपमानं विना भिक्षा प्राप्यते या सुदैवतः।
प्राप्तिकाले तु संप्राता सा भिक्षा हर्षदायिनी॥२॥
कर्तव्यं ये सुबुध्यन्ति व्याजाच्च न निषेधकाः।
याचना तेषु सश्लाघा भण्यते व्यावहारिकैः॥३॥
स्वप्नकालेऽपि यत्पार्त्शे याञ्चा मोघा न जायते।
स्वदानमिव तद् याचा वर्तते मानवर्द्धिनी॥४॥
दानशूरा जना नूनं बहवः सन्ति भूतले।
तत एव जनाः केचित् सन्ति भिक्षोपजीविनः।५।।
अदानाय न ये क्षुद्रकृपणाः सन्ति सञ्जनाः।
तेषां दर्शनमात्रेण दारिद्रयं याति संक्षयम्॥६॥
ददते ये दयाप्राणा विनैव क्रोधभर्सने।
अर्थिनस्तान् विलोक्यैव मोदन्ते स्नेहवीक्षिताः॥७॥
याचका यदि नैव स्युर्दानधर्मप्रवर्तकाः।
काष्टपुत्तलनृत्यं स्यात् तदा संसारजालकम्॥८॥
भिक्षुका यदि नैव स्युरहो अस्मिन्महीतले।
अवर्तिष्यत् कथं तर्हि कुत्रौदार्यस्य वैभवम्॥९॥
असामर्थ्य यदि व्रूते दाता दानस्य कर्मणि।
अर्थी नैव ततः क्रुध्येत् स्पष्टा चेत् सदृशी स्थितिः॥१०॥