परिच्छेदः ९
अतिथिसत्कारः
बहुकष्टसमाकीर्ण गृहमारं मनीषिणः।
वहन्ति केवलं वीक्ष्य पुण्यमातिथ्यपूजनम्॥१॥
यदि दैवाद् गृहे वासो देवस्यातिथिरूपिणः।
पीयूषस्यापि पानं हि तं विना नैव शोभते॥२॥
गृहागतातियेर्भक्तेर्यो हि नैव प्रमाद्यति।
तस्योपरि न चायाति विपत्तिः कापि कष्टदा॥३॥
योग्यातिथेः सदा यस्य स्वागते मानसीस्थितिः।
श्रियोऽपि जायते मोदो वासार्थं तस्य सद्मनि॥४॥
शेषमन्नं स्वयं भुङ्क्ते पूर्व भोजयतेऽतिथीन्।
क्षेत्राण्यकृष्टपच्यानि नूनं तस्य महात्मनः॥५॥
पूर्व सम्पूज्य गच्छन्तमागच्छन्तं प्रतीक्षते।
यः पुमान् स स्वयं नूनं देवानां सुप्रियोऽतिथिः॥६॥
आतिथ्यपूर्णमाहात्म्यवर्णने न क्षमा वयम्।
दातृपात्रविधिद्रव्यैस्तस्मिन्नस्तिविशेषता॥७॥
अकर्ताऽतिथियज्ञस्य शोकमेवं गमिष्यति।
सश्चितोऽयं महाकोषः पञ्चत्वे हा न कार्यकृत्॥८॥
योग्यवैभवसद्भावे येनाहो नेज्यतेऽतिथिः।
दरिद्रः स नरो नूनं मूर्खाणाश्च शिरोमणिः॥९॥
आघ्रातं म्लानतां याति शिरीषकुसुमं परम्।
एकेन दृष्टिपातेन म्रियतेऽतिथिमानसम्॥१०॥