परिच्छेदः १०
मधुरभाषणम्
सुस्निग्धा मधुरा नूनं सतां भवति भारती।
अकृत्रिमा दयायुक्ता पूर्णसद्भावसंभृता॥१॥
प्रियवाण्यां सुवात्सल्ये स्निग्धदृष्टौं च यद्विधम्।
माधुर्य दृश्यते तद्वद् बृहद्दानेऽपि नेक्ष्यते॥२॥
स्नेहपूर्णा दयादृष्टिर्हार्दिकी या च वाक्सूधा।
एतयोरेव मध्ये तु धर्मों वसति सर्वदा॥३॥
वचनानि रसाढ्यानि यस्याह्लादकराणि सः।
कदाचिल्लभते भैव दारिद्रयं दुःखबर्द्धनम्॥४॥
भूषणे द्वे मनुष्यस्य नम्रताप्रियभाषणे।
अन्यद्धि भूषणं शिष्टैनदृितं सभ्यसंसदि॥५॥
यदि ते मानसं शुद्धं वाणी चान्यहितड्करी।
धर्मवृद्धया समं तर्हि विज्ञेयः पापसंक्षयः॥६॥
सेवाभावसमायुक्तं विनम्रवचनं सदा।
विश्वं करोति मित्रं हि सन्त्यन्येऽपि महागुणाः॥७॥
शब्दाः सहृदयै: श्लाध्याः क्षुद्रतारहिताश्च ये।
कुर्वन्ति ते हि कल्याणमिहामुत्र च भाषिणः॥८॥
श्रुतिप्रियोक्तिमाधुर्यमवगम्यापि ना[१] कथम्।
न मुश्चति दुरालाप किमाश्चर्यमतः परम्॥९॥
विहाय मधुरालापं कटूक्तिं योऽथ भाषते।
अपक्कं हि फलं भुङ्क्ते परिपक्कं विमुच्य सः॥१०॥
- ↑ नर.।