परिच्छेदः ११
कृतज्ञता
या दया क्रियते भव्यैराभारस्थापनं विना।
स्वर्ग्यमर्त्यावुभौ तस्याः प्रतिदानाय न क्षमौ॥१॥
शिष्टैरवसरं वीक्ष्य यानुकम्पा विधीयते।
स्वल्पापि दर्शने किन्तु विश्वस्मात् सा गरीयसी॥२॥
आपन्नार्तिविनाशाय यानपेक्ष्वार्यवृत्तिना।
क्रियते करुणा तस्या अब्धेरप्यधिकं बलम्॥३॥
लाभ: सर्षपतुल्योऽपि परस्माज्जायते यदि।
कृतज्ञस्य पुरस्तात्तु तालतुल्यो भवत्यसौ॥४॥
सीमा कृतज्ञतायास्तु नोपकारावलम्बिता।
तन्मूल्यमुपकार्यस्य पात्रत्वे किन्तु निर्भरम्॥५॥
उपेक्षा नैव कर्तव्या प्रसादस्य महात्मनाम्।
प्रणयोऽपि न हातव्यस्तेषां ये दुःखबान्धवाः॥६॥
संकटे भीतिमापन्नान् य उद्धरति सर्वदा।
कृतज्ञत्वेन तन्नाम कीर्त्यते हि भवान्तरे॥७॥
नीचत्वं ननु नीचत्वमुपकारस्य विस्मृतिः।
भद्रत्वं खलु भद्रत्वमपकारस्य विस्मृतिः॥८॥
अपकर्तुरपि प्राज्ञैरुपकारः पुराकृतः।
स्मृतः करोति दुःखानां विस्मृतिं मर्मघातिनाम्॥९॥
अन्यदोषेण निन्द्यानासुद्धारः संभवत्यहो।
परं भाग्यविहीनस्य कृतघ्नस्य न चास्ति सः॥१०॥