पृष्ठ:कुरल-काव्य.pdf/३७

विकिस्रोत से
यह पृष्ठ प्रमाणित है।
१२]
 


परिच्छेदः १२
न्यायशीलता

इदं हि न्यायनिष्ठत्वं यन्निष्पक्षतया सदा।
न्याय्यो भागो हृदा देयो मित्राय रिपवेऽथवा॥१॥
न क्षीणा जायते जातु सम्पत्तिार्न्यायशालिनः।
वंशक्रमेण सा याति सहैवास्य सुकर्मणः॥२॥
अन्यायप्रभवं वित्तं मा गृहाण कदाचन।
वरमस्तु तदादाने लाभ एवास्तदूषणः॥३॥
अन्यायेन समायुक्तं न्यायारूढञ्च मानवम्।
व्यनक्ति संततिर्नूनं स्वगुणैरात्मसंभवम्॥४॥
स्तुतिर्निन्दा च सर्वेषां जायेते जीवने ध्रुवम्।
न्यायनिष्ठा परं किश्चिदपूर्व वस्तु धीमताम्॥५॥
नीतिं मनः परित्यज्य कुमार्ग यदि धावते।
सर्वनाशं विजानीहि तदा निकटसंस्थितम्॥६॥
अथ निःस्वो भवेन् न्यायी कदाचिद् दैवकोपतः।
तथापि तं न पश्यन्ति लोका हेयदृशा ध्रुवम्॥७॥
अमायिकस्तुलादण्ड: पक्षद्वयसमो यथा।
तेन तुल्यः सदा भूयादासीनो न्यायविष्टरे॥८॥
नैवस्खलति चेतोऽपि सुनीतेर्यस्य धीमतः।
तस्यौष्ठनिर्गतं वाक्यं न मृषा न्यायरागिणः॥९॥
परकार्यमपि प्रीत्या स्वकार्यमिव यो गृही।
कुरुते तस्य कार्येषु सिद्धिर्भाग्यवतः सदा॥१०॥