पृष्ठ:कुरल-काव्य.pdf/४१

विकिस्रोत से
यह पृष्ठ प्रमाणित है।
१६]
 


परिच्छेदः १६
क्षमा

आश्रयं धरणी दत्ते खनितारमपि ध्रुवम्।
तथा त्वं बाधकान्नित्यं क्षमस्वास्मिन् सुगौरवम्॥१॥
तस्मै देहि क्षमादानं यस्ते कार्यविघातकः।
विस्मृतिः कार्यहानीनां यद्यहो स्थात् तदुत्तमा॥२॥
स एव निर्धनो नूनमातिथ्याद् यः पराङ्मुखः।
एवं स एव वीरेन्दुर्मौंर्ख्यं येन विषह्यते॥३॥
यदि कामयसे सत्यं हृदयेन सुगौरवम्।
कार्यस्तर्हि समं सर्वैर्व्यवहारः क्षमामयः॥४॥
प्रतिवैरं विधत्ते यो न स्तुत्यः स विदाम्परैः।
अरावपि क्षमाशीलो बहुमूल्यः स हेमवत्॥५॥
यावदेकदिनं हर्षों जायते वैरसाधनात्।
क्षमादानवतः किन्तु प्रत्यहं गौरवं महत्॥६॥
प्राप्यापि महतीं हानिं स्वल्पोऽप्याकारविभ्रमः।
न लक्ष्यते परं चित्रं नैवेहा वैरशोधने॥७॥
विधत्ते तब कार्याणां हानिं यो गर्विताशयः।
सद्वर्तनस्य शस्त्रेण तस्यापि विजयी भव॥८॥
गृहं विमुच्य ये जाता ऋषयों लोकपूजिता:।
तेभ्योऽपि प्रवरा नूनं यै: खलोक्तिर्विषह्मते॥९॥
महान्तः सन्ति सर्वेऽपि क्षीणकायास्तपस्विनः।
[१]क्षमावन्तमनुख्याताः किन्तु विश्वे हि तापसाः॥१०॥


  1. हीना.