परिच्छेदः ३०
सत्यभाषणम्
यस्मान्न जायते पीड़ा कस्यापि प्राणधारिणः।
तदेव वचनं सत्यं भाषितं मुनिपुङ्गवै:॥१॥
संकटाकीर्णजीवानामुद्धारकरणेच्छया।
कथिता साधुभिर्जातु मृषोक्तिरमृषैव सा॥२॥
मृषात्वं यस्य विज्ञातं मनसा यदि धीमता।
तद्वचो न प्रयोक्तव्यमनुतापोऽन्यथा भवेत्॥३॥
सत्यव्रतेन यस्यास्ति पवित्रं मानसं सदा।
प्रभुत्वं वर्तते तस्य सर्वेषामेव मानसे॥४॥
सत्ये शाश्वतकल्याणे निमग्नं यस्य मानसम्।
ऋषिभ्यः स महान् नूनं दानिभ्यश्च वरो मतः॥५॥
अतः परा च का कीर्तिर्यन्मृषासौ न भाषते।
एवं विधो नरो नूनं विना क्लेशेन सिद्धिभाक्॥६॥
न वक्तव्यं न वक्तव्यं मृषावाक्यं कदाचन।
सत्यमेव परो धर्मः किं परैर्धर्मसाधनैः॥७॥
विमलैः सलिलैर्यद्वद् गात्रं शुद्धयति देहिनाम्।
एवमेव मनुष्याणां मानसं सत्यभाषणैः॥८॥
अन्यान् सर्वविधान्नैव प्रकाशान् मन्यते सुधीः।
सत्यमेव परं ज्योतिर्विजानाति विशुद्धधीः॥९॥
बहुवस्तूनि दृष्टानि तत्रैकं सारवत्तरम्।
इदमेव मया ज्ञातं यत्सत्यं परमोत्तमम्॥१०॥