पृष्ठ:कुरल-काव्य.pdf/६१

विकिस्रोत से
यह पृष्ठ प्रमाणित है।
३६]
 

 

परिच्छेदः ३६
सत्यस्यानुभूतिः

अनित्ये खलु संसारे किञ्चित् सत्यं न विद्यते।
सत्यं पश्यन्ति ये तत्र तेषां दुःखितजीवनम्॥१॥
मिथ्याभावविनिर्मुक्त आत्मदृष्टिश्च यो नरः।
दुःखमोहौ समुच्छिद्य स शान्तिमधिगच्छति॥२॥
असत्यं यः परित्यज्य लभते सत्यदीपकम्।
तत्कृतेऽतिसमीपस्थ: स्वर्गो भूवलयादपि॥३॥
यद्यात्मन् शाश्वतं सत्यमनुभूतं न जातुचित्।
नरयोनौ तदा जन्मग्रहणेनापि को गुणः॥४॥
इयानेवात्र सत्यांशः शेषस्तत्प्रत्यनीकभाक्।
इदमेव परिज्ञानं मेधाया वरलक्षणम्॥५॥
येन सत्यमभिज्ञातं स्वाध्यायतपसोर्बलात्।
स धन्यो याति तद्धाम यद्‌गत्वा न निवर्तते॥६॥
ध्यानप्रभृतियोगाङ्गैर्येन सत्यं समर्जितम्।
भाविजन्मसमादाने का चिन्ता तस्य योगिनः॥७॥
अविद्या भवरोगस्य जननी सर्वदेहिनाम्।
तन्मुक्तया सह चित्प्राप्तिरेषैव प्राज्ञता परा॥८॥
मोक्षमार्गस्य यो ज्ञाता मोहारेश्च जयोद्यतः।
तस्य भावीनि दुःखानि यान्ति शान्तिमयत्नतः॥९॥
कामः क्रोधस्तथा मोहो यथा स्युः क्षीणशक्तिकाः।
तथानुगामिदुःखानि क्षीयन्तेऽधिकमात्रया॥१०॥