पृष्ठ:कुरल-काव्य.pdf/६५

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
४०]
 

 

परिच्छेदः ४०
शिक्षा

अधिगम्यं हि यज्ज्ञानं सामस्त्येन तदर्जयेत्।
आचरेच्च तथा नित्यं विद्याप्राप्तेरनन्तरम्॥१॥
द्वे चक्षुषी मनुष्याणां जातेर्जीवितजागृते।
एकं वर्णसमाम्नायो द्वितीयञ्चाङ्कसंग्रहः॥२॥
यः शिक्षितः स एवास्ति चक्षुष्मानिह भूतले।
अन्येषान्तु मुखे नूनमस्ति गर्तद्वयाकृतिः॥३॥
सहैव नयते मोई विद्वान् यत्रापि गच्छति।
प्रमोदोऽपि ततो याति यतश्चायं निवर्तते॥४॥
न्यक्कृतोऽपि भवञ्शिष्टैधनिकैरिव भिक्षुकः।
प्रयत्नेन पठेद् विद्यां ह्यधमा ज्ञानदूरगाः॥५॥
तावदेव जलं भूरि यावत् स्रोतो निखन्यते।
एवञ्च तावती विद्या यावती सा हि पठ्यते॥६॥
सर्वत्र विदुषां गेहं स्वदेशश्च महीतलम्।
यावज्जीवं पुनर्मात्र्याः कथं न ज्ञानरागिणः॥७॥
एकजन्मनि यज्ज्ञानं गृहीतं देहधारिणा।
उन्नतं तत् करोतीह जीवमागामिजन्मसु॥८॥
इयं विद्या यथा मेऽस्ति पुष्कलानन्ददायिनी।
तथैवेयं परस्यापि सुप्रियातो बुधस्य सा॥९॥
मनुष्याणां कृते ज्ञानमविनाशी महानिधिः।
दोषत्रुटिविहीनञ्च यस्मादन्यन्न वैभवम्॥१०॥