पृष्ठ:कुरल-काव्य.pdf/६७

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।

४२]

 

परिच्छेदः ४२
प्रवचनश्रवणम्

कोषेषु मूल्यवान् कोषः कर्णकोषोऽस्ति सर्वथा।
सम्पदासु च सर्वासु स श्रेष्ठो नात्र संशयः॥१॥
कर्णयोर्भधुरं पेयं प्राप्तं नैव यदा भवेत्।
कुक्षेरपि तदा तृप्त्यै दानीयं स्यात् सुभोजनम्॥२॥
सूक्तयो बहवो नित्यं यः श्रुताः श्रुतशालिनाम्।
महीतले हि ते सन्ति देवतारूपधारिणः॥३॥
नैवाधीतं श्रुतं येन शृणुयात् सोऽपि सद्वचः।
विपदां सन्निधाने हि शान्तिस्तेनैय जायते॥४॥
धार्मिकाणां शुभा वाणी दृढयष्टिरिवाहिता।
विपत्तिकाले सम्प्राप्ते पतनाद् या सुरक्षति॥५॥
अपि स्वल्पं महद्वाक्यं श्रोतव्यं युक्तचेतसा।
एकाकिना यतस्तेन क्रियते भुवि मान्यता॥६॥
समभ्यस्य श्रुतं येन स्वयञ्च मननं कृतम्।
विस्मृत्यापि बुधः सोऽयमवाच्यं नैव भाषते॥७॥
बधिरावेव तौ कर्णौ श्रवणक्षमतायुतौ।
अनभ्यासो ययोरस्ति श्रोतु विज्ञसुभाषितम्॥८॥
न श्रुतं विदुषां येन कलापूर्ण सुभाषितम्।
तस्य भाषणनैपुण्यं स्वयमेवातिदुर्लभम्॥९॥
जिह्वारसन्तु यो वेत्ति कर्णयोः किन्तु नो रसम्।
को गुणो जन्मना तस्य हानिर्वा मरणेन का॥१०॥