सामग्री पर जाएँ

पृष्ठ:कुरल-काव्य.pdf/७०

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
[४५
 

 

परिच्छेदः ४५
योग्यपुरुषाणां मैत्री

धर्ममाचरतां येषां वृद्धत्वं वयसा समम्।
नित्यं तेषां सुवात्सल्यं प्रतिपच्या समर्जयेः॥१॥
यदस्ति भावि वा यच्च दुःखं तद् यो व्यपोहितुम्।
शक्तस्तेन समं मैत्रीं कुरु सोत्साहचेतसा॥२॥
सन्मानवैः समं सख्यं प्राप्तं यस्य सुदैवतः।
असंशयं हि सौभाग्यं वर्तते तस्य धीमतः॥३॥
गुणाधिकस्य सौहार्द लब्धं येन सुभक्तितः।
प्राप्ता तेनेद्दशी शक्तिस्तुच्छा यत्पुरतोऽपराः॥४॥
लोकशासकभूपानां सचिवा दृष्टिसन्निभाः।
अतस्तेषां नियोगोऽपि विधातव्यो यथागुणम्॥५॥
सत्पुरुषैः समं मैत्री नित्यं यस्य विराजते।
अपकारं हि तत्साधोः कर्तुं शक्ता न वैरिणः॥६॥
अपि भर्त्सयितुं शक्तैः सार्ध सख्यस्य गौरवम्।
यस्यास्ति तस्य के सन्ति भूतले हानिकारकाः॥७॥
यस्यापेक्षा न साहाय्ये तस्य यः साधु शास्ति तम्।
असद्भावेऽपि शत्रूणां स च भूपः क्षयोन्मुखः॥८॥
यथा लाभो न तस्यास्ति नीवी' यस्य न विद्यते।
व्यवस्थापि तथा नास्ति बुद्धिं बुद्धिमतां विना॥९॥
विरोधो बहुभिः सार्ध मौख्यं सूचयते यथा।
तथा सख्यविधानोऽपि सद्भिः साकं ततोऽधिकम्॥१०॥


१.मूलभनम्।