पृष्ठ:कुरल-काव्य.pdf/७६

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
[५१
 

 

परिच्छेदः ५१
उपयुक्तपरीक्षा

अर्थों धर्मश्च कामश्च प्राणानां भयमेव च।
उपयुक्तपरीक्षार्थ[१] चतस्रो[२] निकषा मताः॥१॥
अप्रतिष्ठाभयं यस्य निर्दोषः कुलजस्तथा।
स एव पुरुषो योग्यस्त्वत्सेवार्थ महीपते॥२॥
ज्ञानविज्ञानसम्पन्नो यतिकल्पोऽपि यो नरः।
सोऽप्यनवधक्रियो नास्ति विचारे सति तत्वतः॥३॥
नरस्य सद्गुणान् पश्य दोषानपि तथैव च।
अधिकाः सन्ति ये तेषु प्रकृतिस्तस्य तादृशी॥४॥
वर्तते किमसी क्षुद्रः किनु वायमुदारधी।
इति वेत्तु नरः पश्येदाचार निकषोपमम्॥५॥
असमीक्ष्य न कर्तव्यो विश्वासो निष्कुटुम्बिनः।
एकाकिनो यतस्तस्य मोहलाविहीनता॥६॥
मूद कार्यविधेः शून्यं यः करोति स्वमंत्रदम्।
केवलं प्रीतिमात्रेण स नृपो विपदां पदम्॥७॥
अपरीक्षितविश्वासं कुरुते यो हि मानवः।
स संततिकृते दुःखबीजानि बपति ध्रुवम्॥८॥
परीक्षितस्य विश्वासः कर्तव्यो हष्टचेतसा।
परीक्षिताय तद्योग्यं कार्य देयं नृपालकैः॥९॥
अज्ञातकुलशीलस्य विश्वासो भयदायकः।
एवं विज्ञातशीलस्याप्रत्ययो[३] दुःखकारकः॥१०॥


  1. राज्यपदाभिलाषिन।
  2. उपधा।
  3. अविश्वास.।