परिच्छेदः ५८
चारुशीलम्:
चारुशीलात्परं नास्ति सुरम्यं मोददायकम्।
कार्य सुचारुरूपेण सृष्टेस्तेनैव वर्तते॥१॥
जीवनस्यापि माधुर्य शीले सत्येव विद्यते।
भारभूता विपर्यासे जायन्ते मानवा भुवि॥२॥
अहो गीतेन कि तेन यन्न केनापि गीयते।
नेत्रेणापि च किं तेन यत्र स्नेहो न दृश्यते॥३॥
कोऽर्थों नेत्रेण मात्रायां यन्नादरपरं परे[१]।
केवलं मुखमुद्रायां नूनमस्यास्ति दर्शनम्॥४॥
नेत्रयोर्भूषणं शीलं यत्र तत्रैव विद्यते।
अहो ते लोचने नूनं वर्तेते शिरसि क्षते॥५॥
जायते नैव यस्याक्षि सविचारं परं प्रति।
सनेत्रोऽपि स किंनेत्रो निर्विशेषश्च भूरुहात्॥६॥
सत्यमेवाक्षिहीनास्ते येषु नास्ति परादरः।
सनेत्राः सन्ति ते ये च परदोषे दयालवः॥७॥
यः कर्तव्ये न वैलक्ष्यं कृत्वा सत्कुरुते परान्।
तस्य रिक्थे महीराज्यं वर्तते गुणशालिनः॥८॥
दुःखदेभ्यः क्षमादानं दत्वा नूनं विमोचनम्।
सहैव स्नेहदानं चेत् ख्याता चित्तसमुन्नतिः॥९॥
यदीच्छसि निजं लोके शीलनेत्रसमन्वितम्।
तद्विषं तर्हि पानीयं यत् ते साक्षाद् विमिश्रितम्॥१०॥
- ↑ परस्मिन्।