परिच्छेदः ६७
स्वभावनिर्णयः
मनोबलात् किमन्यत्र महत्त्वं यशसा चये।
इतरेषां यतो नास्ति तत्राल्पापि किलांशता॥१॥
विनिश्चयाय कार्याणां विदुषां निर्णयद्वयम्।
पूर्णदार्ढ्यं निजोद्देशेऽशक्यस्याथविमोचनम्॥२॥
न व्यनक्ति निजोद्देशं सिद्धेः पूर्व सुकर्मठः।
अलंध्या अन्यथा पुंसो जायन्ते विपदां चयाः॥३॥
कथनं सुलभं लोके यस्य कस्यापि वस्तुनः।
यथापद्धति हस्तेन करणं किन्तु दुर्लभम्॥४॥
विधानादुञ्चकार्याणां सन्ति ये कीर्तिशालिनः।
सेवन्ते तान् नृपा नत्वा श्लाघन्ते च जनाः सदा॥५॥
पुमाँश्चेत् सत्यसंकल्पः पूर्णशक्त्या च संभृतः।
तदेव लभ्यते तर्हि यथा यत्तेन काम्यते॥६॥
आकृत्यैव नरः कोऽपि नैष्कर्म्यं नाधिगच्छति।
स एव दृश्यते काले कार्याधारो रथाक्षवत्॥७॥
सद्बुद्धया यत् त्वया कार्य स्वकर्तव्ये विनिश्चितम्।
तसिद्धथै पूर्णशक्तथैव यतस्वाचलचेतसा॥८॥
प्रसादकेषु कार्येषु संलग्नो भव चेतसा।
आक्रान्तोऽपि शतैः कष्टर्यावदन्तं दृढो भवन्॥९॥
चरित्रगठने येषां शक्तिमत्ता न विद्यते।
तेऽन्यदिक्षु महान्तोऽपि न लोके गौरवान्विताः॥१०॥