पृष्ठ:कुरल-काव्य.pdf/९४

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
[६९
 

 

परिच्छेदः ६९
राजदूतः

लोकपूज्ये कुले जन्म हृदयं करुणामयम्।
नृपाणां मोददातृत्वं राजदूतगुणा इमे॥१॥
निसर्गात् प्रेमवृत्तित्वं वारिग्मत्वं विस्मयावहम्।
प्रतिभावत्वञ्च दूतानां त्रयो ह्यावश्यका गुणाः॥२॥
स्वामिलाभाय येनात्तो[१] भारो भूपतिमण्डले।
आवश्यकं हि तद्वाण्यां पाण्डित्यं सर्वतोऽधिकम्॥३॥
प्रभावजननी यस्य मुखमुद्रास्ति पश्यताम्।
विद्याविभूषितो यश्च स दूतार्हों महीभुजाम्॥४॥
संक्षेपभाषणं वाण्यां माधुर्य कट्वभाषणम्।
सुदूताः साधनैरेतैः कुर्वन्ति स्वामिनो हितम्॥५॥
प्रभावोत्पादिका वाणी वैदुष्यं समयज्ञता।
प्रत्युत्पन्नमतित्वञ्च दुतस्य प्रथमे गुणाः॥६॥
स्थानावसरकर्त्तव्यबोधे यस्यातिपाटवम्।
आलोचितोक्तशब्दो यः स दूतो दूत उच्यते॥७॥
निसर्गहृदयग्राही विशुद्धात्मा सदाशयः।
हक्षाश्च यस्य संकल्पास्तं दूत्ये[२] खलु योजयेत्॥८॥
आवेशादपि न ब्रूते दुर्वाक्यं यो विचक्षणः।
परराष्ट्रे स एवास्ति योग्यः शासनहारका॥९॥
च्यवन्ते नैव कर्तव्यात् प्राणैः कण्ठगतैरपि।
सुदतः पूर्णयत्नेन साधनोति स्वामिनो हितम्॥१०॥


  1. गृहीतो।
  2. दूतवाणीग्म्याश्चेति यत्।