पृष्ठ:कुरल-काव्य.pdf/९६

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
[७१
 

 

परिच्छेदः ७१
मुखाकृत्याभावपरीक्षणम्

उक्तः पूर्व विजानाति मनोभावं परस्य यः।
स मेधावी सतां वन्धो वर्तते भूविशेषक:[१]॥१॥
मनोगतं हि यो भावं बुद्धया समधिगच्छति।
न स साधारणः किन्तु वर्तते भुवि देवता॥२॥
आकृतिं वीक्ष्य यः प्राज्ञः परभावं समूहते।
प्रीत्या केनापि यत्नेन मन्त्रदः स विधीयताम्॥३॥
उक्तं वेत्ति नरः कश्चिदनुक्तञ्चाप्यतुच्छधीः।
आकृतौ सति साम्येऽति श्रेण्यां भिन्नस्थितिस्तयोः॥४॥
सकृदेव नरं दृष्ट्वा भावं मानससंस्थितम्।
बोद्धुं यदक्षमं चक्षुर्वृथा ज्ञानेन्द्रियेषु तत्॥५॥
भिन्नवर्णसमायोगं व्यनक्ति स्फटिको यथा।
तथैव सर्वलोकानां वक्त्रं वक्ति हि मानसम्॥६॥
भावपूर्णमुखं त्यक्त्या श्रेष्ठमन्यन्न वस्तुकम्।
मुखं हि सर्वतः पूर्व हर्षामषौं व्यनक्ति नुः[२]॥७॥
यदि प्राप्तो भवेत्पुण्याद् विना शब्देन भाववित्।
तदक्षिसन्निकर्षोऽपि जायते ननु सिद्धिदः॥८॥
आकूतादिपरिज्ञानमुत्तमं यदि वर्तते।
एकेन तर्हि बुध्येते रागरोषौ हि चक्षुषा॥९॥
धूर्ता भद्रतराश्चापि सन्ति ये वसुधातले।
तदृदृष्टिरेव सर्वत्र तेषां भावस्य सूचिका॥१०॥


  1. भूतिलक।
  2. नरस्य।