( २७ ) महाकवेर्बाणस्य कानिचित् परिचित - ग्रंथेष्वलब्धानि पद्यानि [ लेखक - श्री बटुकनाथ शर्मा एम० ए० ] विदितमेवैतत् संस्कृतसाहित्यजुषां विदुषां यद् वाणाभिधानः कश्चत कविप्रधानः कान्यकुब्जाधिपतेः श्रीहर्षवर्द्धननृपतेः सभायाँ वैक्रमीयमशतकस्य द्वितीया विद्वत परिषदं मंडयन्निव सुचिर- मत्रात्सीत् । तेनानेके ग्रन्थाः प्रणीताः, किन्तु तेषु कियन्तः कालकवलन- कलाकलिताश्चिराद्विस्मृतिपथमंत्राविरुरुदुः । अद्यावध्युपलब्धास्वेते यथा हर्षचरितं कादम्बरी चण्डोशतकं च । केषाञ्चन गवेषणा- ध्वधुरीणानां मते पार्वतीपरियं नाम नाटकमपि तत्प्रणीतमंत्र । त्रिवि क्रमभट्टनिर्मिताया नलचम्वा टोकायां गुणविनयगणिः वाविर- चितस्य मुकुटताडितकाभिधेयस्य कस्यचन प्रस्य श्लोकैकप्रदानपुर:- सरं स्पष्टं समुल्ल खं करोति 1 स च श्लोको यथा आशाः प्रोतिदिग्गजा इव गुहाः प्रध्वस्तसिंहा इव द्रोण्यः कृत्तमहाद्रुमा इव भुवः प्रोत्खातशैला इव । विभ्राणा: चयकालरिक्स कल त्रैलोक्य कष्ट दशां जाताः क्षीणमहारथाः कुरुपतेर्देवस्य शून्याः सभाः || औचित्यविचारचर्चायो गुणौचित्य प्रदर्शनप्रसङ्ग चेमेन्द्रः कादम्ब- र्या विरहव्यथावर्णनात्मकं श्लोकमेकं समुदाहरति । श्लोको यथा- 111 हारो जलार्द्रवसनं नलिनीदलानि प्राप्तेयशीकरमुचस्तुहिनां शुभासः । यस्येंधनानि सरलानि च चन्दनानि . निर्वाणमेष्यति कथं स मनोभन्नाग्निः ॥ स चायं ६३
पृष्ठ:कोशोत्सव-स्मारक-संग्रह.pdf/५४०
दिखावट