पृष्ठ:सत्यार्थ प्रकाश.pdf/१६९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

पष्टममुल्लासः॥ अलब्धमिच्छेदण्डेन लब्धं रक्षेदवेक्षया । रक्षितं वर्द्धद् वृद्धया वृद्धं दानेन निःक्षिपेत् ॥ २॥ अमायथैव वर्तेत न कथंचन मायया । बुध्येतारिप्रयुक्तां च मायान्नित्यं स्वसंवृतः ॥३॥ , नास्य छिद्रं परो विद्याच्छिद्रं विद्यात्परस्य तु । गूहेस्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ ४ ॥ बकवचिन्तयेदर्थान् सिंहवच्च पराक्रमेत् । वृकवचावलुम्पेत शशवञ्च विनि-पतेत् ॥ ५ ॥ एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः । तानानयेद्वशं सर्वान् सामादिभिरुपक्रमैः ॥ ६ ॥ योद्धरति निर्दाता कक्ष धान्यं च रक्षति । तथा रक्षेन्नृपो राष्ट्र हन्याञ्च परिपन्थिनः ॥ ७ ॥ मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया । सोऽचिराद् भ्रश्यते राज्याज्जीविताञ्च सवान्धवः ॥ ८ ॥ शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा । तथा राज्ञामपि प्राणाः क्षीयन्त राष्ट्रकर्षणात् ॥ ॥ राष्ट्रस्य संग्रह नित्यं विधानमिदमाचरेत् । सुसंग्रहीतराष्ट्रो हि पार्थिवः सुखमेधते ।। १० ॥ द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठिनम् । तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य संग्रहम् ॥ ११ ॥ ग्रामस्याधिपतिं कुर्यादशग्रामपति तथा । विशतीशं शतेशं च सहस्रपतिमेव च ॥ १२ ॥ ग्रामे दोषान्समुत्पन्नान् ग्रामिकः शनः स्वयम् ।। -0