परिच्छेदः ८८
शत्रून् प्रति व्यवहारः
नन्वेका राक्षसी लोके शत्रुतानामधारिणी।
विनोदेऽपि न सा कार्या स्वयमेव विपश्चिता॥१॥
वरं करोतु हे भद्र वैरं वै शस्त्रपाणिना।
परं कुर्यान्न ते नामा वाणी यस्यासिसन्निमा॥२॥
उन्मत्तः स हि भूपालो यस्यैको न सहायकृत्।
परमाहृयते योद्धुमनेकानपि वैरिणः॥३॥
अमित्रमपि मित्रं यो कर्तुं शक्तोऽस्ति पाटवात्।
सुस्थिरा तस्य राज्यश्रीर्जयश्रीश्च करे ध्रुवा॥४॥
असहायः स्वयञ्चैको विरोधे द्वौ च वैरिणौ।
एकेन तर्हि संदध्यादपरं युधि योजयेत्॥५॥
संकल्पितोऽपि शत्रुर्वा सखा चैव परागमे।
प्रतिवेशी न कर्तव्यो माध्यस्थ्ये हितवृत्तिता॥६॥
अजानतां पुरो नैव भाषणीया विपत्तयः।
त्रुटयोऽपि न वक्तव्या रिपूणां पुरतस्तथा॥७॥
युक्तिसाधनसम्पन्नः सुव्यवस्थः सुरक्षितः।
अहो चेदसि शत्रूणां द्रुतं गर्वो विनङ्क्ष्यति॥८॥
छेद्यः कण्टकिनो वृक्षा जाता एव मनीषिणा।
छेत्तुरेवान्यथा पाणी कुर्वन्ति क्षतविक्षतौ॥९॥
अवज्ञातू रिपोर्नैव शक्ता ये मानभञ्जने।
ते नूनमधमा लोके न च स्युश्चिरजीविनः॥१०॥