पृष्ठ:कुरल-काव्य.pdf/२८

विकिस्रोत से
यह पृष्ठ प्रमाणित है।
[३
 


परिच्छेदः ३
मुनिमाहात्म्यम्

परिग्रहं परित्यज्य जाता ये तु तपस्विनः।
तेषां गायन्ति शास्त्राणि माहात्म्यं सर्वतोऽधिकम्॥१॥
ऋषीणां पूर्णसामर्थ्य वेत्तुं को मानवः क्षमः।
दिवंगतान् यथा जीवान् संख्यातुं को जनः क्षमः॥२॥
मुक्तेर्भिन्नं भवं ज्ञात्वा त्यक्तो येन महात्मना।
उद्‌द्योतितं जगत्सर्वं तेनैव निजतेजसा॥३॥
स्वर्गक्षेत्रस्य बीजानि[१] संयमेन तपोधनाः।
इन्द्रियाणि वशे येषामङ्कुशेन गजो यथा॥४॥
विजिताक्षमहर्षीणां शक्तिरत्रास्ति कीदृशी।
ज्ञातुमिच्छसि चेत्तर्हि पश्य भक्तं सुराधिपम्॥५॥
करोति दुष्करं कार्य सुकरं पुरुषोत्तमः।
करोति सुकरं कार्य दुष्करं पुरुषाधमः॥६॥
स्पर्शे रसेऽथवा गन्धे रूपे शब्दे च यन्मनः।
क्रमते नैव तस्यास्ति योगो विष्टपशासने॥७॥
ये सन्ति धार्मिका ग्रन्थाः समस्ते धरिणीतले।
आलोकं[२] तेऽपि कुर्वन्ति मुनीनां सत्यवादिनाम्॥८॥
त्यागस्य शिखरारूढो मोहग्रन्थिमपास्य यः।
क्षणं सहेत तत्क्रोधमेवं नास्ति नरो भुवि॥९॥
साधुस्वभावमापन्ना मुनयो ब्राह्मणा मताः।
यतस्तेषां सदा चित्ते जीवानां करुणा स्थिता॥१०॥


  1. 'सन्ति' अभ्याहार्यम्
  2. जयघोषम्।