परिच्छेदः २०
व्यर्थभाषणम्
अर्थशून्यं वचो यस्य श्रुत्वोद्वेगः प्रजायते।
तत्सम्पर्काज्जुगुप्सन्ते लोके सर्वेऽपि मानवाः॥१॥
क्लेशदानं स्वमित्रेभ्यो वरमस्तु कथञ्चन।
गोष्ठ्यां किन्तु वृथालापो न श्लाघ्यो निम्नताकरः॥२॥
निस्सारं दम्भपूर्णश्च व्याख्यानं यः प्रभाषते।
नन्वाख्याति स्वयं लोके स मन्दः[१] स्वामयोग्यताम्॥३॥
बुधवृन्दे प्रलापेन कोऽपि लाभो न जायते।
विद्यमानो वरांशोऽपि तत्सम्बन्धाद् विलीयते॥४॥
योग्योऽप्ययोग्यवद् भाति व्यर्थालापपरायणः।
सम्मानं गौरवश्चास्य द्वयमेव विनश्यति॥५॥
रुचिरेवास्ति यस्याहो मोघार्थवचसां व्यये।
तं मानवं न जानीहि ह्यपेक्ष्यं चापि कच्चरम्॥६॥
उचितं बुध चेद् भाति कुर्याः कर्कशभाषणम्।
परं नैव वृथालापं यतोऽस्माद्वै तदुत्तमम्॥७॥
येषां हि निरतं चित्तं तत्त्वज्ञानगवेषणे।
विकथां ते न कुर्वन्ति क्षणमात्रं महर्षयः॥८॥
येषां तु महती दृष्टिर्यें चैवं दीर्घदर्शिनः।
विस्मृत्यापि न कुर्वन्ति वृथोक्तीस्ते महाधियः॥९॥
वाचस्ता एव वक्तव्या याः श्लाघ्याः सभ्यमानवैः।
वर्जनीयास्ततो भिन्ना अवाच्या या वृथोक्तयः॥१०॥
- ↑ मूर्खा.।