पृष्ठ:कुरल-काव्य.pdf/५७

विकिस्रोत से
यह पृष्ठ प्रमाणित है।
३२]
 

 

परिच्छेदः ३२
उपद्रवत्यागः

लोभादिदोषनिर्मुक्तो विशुद्धहृदयो नरः।
दत्ते त्रासं न कस्मैचिद् अपि कौवेरसम्पदे॥१॥
द्वेषबुद्धथा महत्कष्टं विधत्ते यदि दुष्टधीः।
न कुर्वते तथाप्यार्या वैरशुद्धिं विकल्मषाः॥२॥
अहेतौ यो व्यथां दत्ते में तस्मै च तथैव ताम्।
दास्येऽहमिति संकल्पे दुश्चिकित्स्या विपत्तयः॥३॥
अहितस्य हितं कुर्याद् हिया येन मृतो भवेत्।
विनयार्थं हि दुष्टानामेषैव श्लाध्यपद्धतिः॥४॥
यो न वेत्ति परस्यापि स्वस्येव व्यसने व्यथाम्।
कोऽर्थस्तस्य नरस्याहो तीक्ष्णयापि महाधिया॥५॥
दुःखानि यानि भुक्तानि स्वयमेव मनीषिणा।
परस्मै तानि नो जातु देयानीति विचिन्तयेत्॥६॥
ज्ञातभावेन कस्मैचित् स्वल्पा अपि मनोव्यथाः।
न दत्ते यस्ततः कोऽन्यः श्लाघ्यो भवति भूतले॥७॥
यानि दुःखानि भुक्तानि स्वयमेव मुहुर्मुहुः।
न जातु तानि देयानि परस्मै सारसंग्रहः॥८॥
मध्याह्ने यद्यहो कश्चिद् वाधते प्रतिवेशिनम्।
तद्दिने प्रहरादूर्ध्वं स्वयं सैव विपद्यते॥९॥
दुष्कर्मकारिणां शीर्षमाक्रमन्त्यापदः सदा।
अपकृत्यान्यतो भद्रास्त्यजन्तीह निरन्तरम्॥१०॥