पृष्ठ:कुरल-काव्य.pdf/८७

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
६३]
 

 

परिच्छेदः ६२
पुरुषार्थः

अशक्यमिति संभाष्य कर्म मा मुञ्च दूरतः।
उद्योगो वर्तते यस्मात् कामसू: सर्वकर्मसु॥१॥
सामिकार्य[१] न कुर्वीत लोकरीतिविशारदः।
तद्विधात्रे यतः कोऽपि स्पृहयेन्न सचेतनः॥२॥
न जहाति विपत्तौ यः सानिध्यं तस्य गौरवम्।
सेवारूपनिधिन्यासाल्लभ्यते तत् सुदुर्लभम्॥३॥
अनुद्योगवतो नूनमौहार्य क्लीबखड्गवत्।
यतस्तयोर्द्वियोर्मध्ये नैकं चास्ति चिरस्थिरम्॥४॥
सुखे रतिर्न यस्यास्ति कामना किन्तु कर्मणः।
आधारः स हि मित्राणां विपत्तावश्रुमार्जिकः॥५॥
उद्योगशीलिता लोके वैभवस्य यथा प्रसू।
दारिद्रथाशक्तियुग्मस्य जनकोऽस्ति तथालसः॥६॥
आलस्यं वर्तते नूनं दारिद्रयस्य निवासभूः।
गतालस्यश्रमश्चाथ कमलाकान्तमन्दिरम्॥७॥
नापि लज्जाकर दैवान् वैभवं यदि नश्यति।
वैमुख्यं हि श्रमात् किन्तु लजायाः परमं पदम्॥८॥
वरमस्तु विपर्यस्त भाग्य जातु कुदैवतः।
पौरुषन्तु तथापीह फलं दत्ते क्रियाजुषे॥९॥
शश्वत्कर्मप्रसक्तो यो भाग्यचक्रे न निर्भरः।
जय एवास्ति तस्याहो अपि भाग्यविपर्यये॥१०॥


  1. अर्धंकार्यम्।