सामग्री पर जाएँ

पृष्ठ:गीतारहस्य अथवा कर्मयोगशास्त्र.djvu/२

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
॥ अथ समर्पणम् ॥
————:————

श्रीगीतार्थः क गंभीरः व्याख्यातः कविभिः पुरा ।

आचार्येर्यश्च बहुधा क मेऽल्पविषया मतिः॥

तथापि चापलादस्मि वक्तुं तं पुनरुद्यतः।

शास्त्रार्थान् संमुखीकृत्य प्रत्लान् नव्यैः सहोचितैः ।।

तमार्याः श्रोतुमहन्ति कार्याकार्य-दिक्षवः ।

एवं विज्ञाप्य सुजनान् कालिदासाक्षरैः प्रियः।।

बालो गांगाधरिश्चाऽहं तिलकान्वयजो द्विजः।

महाराष्ट्र पुण्यपुरे घसन् शांडिल्यगोत्रभृत् ॥

शाके मुन्यग्निवसुभू-संमिते शालिवाहने ।

मनुसृत्य सतां मार्ग स्मरंश्वापि वचो हरेः ।।

समर्पये ग्रंथमिमं श्रीशाय जनतात्मने ।

अनेन प्रीयतां देवो भगवान् पुरुषः परः ।।
_____________

+ यत्करोषि यदनासि यज्जुहोषि ददासि यत् ।

यत्तपस्यसि कौंतेय तत्कुरुष्व मदर्पणम् ॥
गीतासु. ९. २७.