पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण २. २१ मन्त्र: ७ सोऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति ततोऽश्वः समभवद्यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेध- स्याश्वमेधत्वम् एष ह वा अश्वमेधं वेद य एनमेवं वेद तमननुरुध्यैवामन्यत तं संवत्सरस्य परस्तादात्मन आल- भत पशून् देवताभ्यः प्रत्यौहत् तस्मात्सर्वदेवत्यं मोक्षित प्राजापत्यमालभन्त एष ह वा अश्वमेधौ य एष तपति तस्य संवत्सर आत्माऽयमग्निरर्कस्तस्येमे लोका आत्मान- स्तातावाश्वमेधौ सो पुनरेकैव देवता भवति मृत्युरे- वाप पुनमत्युं जयत्ति नैनं मृत्युराप्नोति मृत्युरस्याऽऽत्मा भवत्येतासां देवतानामेको भवति । इति द्वितीयं ब्राह्मणम् ॥२॥ पदच्छेदः। सः, अकामयत, मेध्यम् , मे, इदम्, स्यात्, आत्मन्धी, अनेन, स्याम्, इति, ततः, अश्वः, समभवत् , यत् , अश्वत्, तत् , मेध्यम् , अभूत् , इति, तत्, एव, अश्वमेधस्य, अश्व- मेधत्वम् , एषः, ह, वा, अश्वमेधम् , वेद, यः, एनम् , एवम् , वेद, तम्, अननुरुध्य, एव, अमन्यत, तम्, संवत्सरस्य, परस्तात्, आत्मने, आलभत, पशून्, देवताभ्यः, प्रत्यौहत्, तस्मात्, सर्वदेवत्यम् , प्रोक्षितम् , प्राजापत्यम् , आलभन्ते, एपः, ह, वा, अश्वमेधः, यः, एपः, तपति, तस्य, संवत्सरः, आत्मा, अयम्, अग्निः, अर्कः, तस्य, इमे, लोकाः, आत्मानः, तौ, एतौ, अाश्वमेधौ, सा, उ, पुनः, एका, एव, देवता, . - .