कुरल-काव्य/परिच्छेदः १०२ लज्जाशीलता
परिच्छेदः १०२
लज्जाशीलता
भद्रो जिहृेति लोकेऽस्मिन् प्रमादादेव सर्वदा।
सुन्दरीणामतो भिन्ना लज्जा भवति सर्वथा॥१॥
इयं लज्जैव मर्त्येषु वर्तते भेदकारिणी।
अन्यथा सदृशाः सर्वे वस्त्रसन्तानभुक्तिभिः॥२॥
वसन्ति सर्वदेहेऽस्मिन् प्राणा यद्यपि देहिनाम्।
नरस्य योग्यता किन्तु लज्जामावसति ध्रुवम्॥३॥
हृदये गुणिता लज्जा रत्नतुल्यो महानिधिः।
उत्सेको गतलज्जस्य चक्षुषोः कष्टकारकः॥४॥
मानभङ्गं परस्यापि वीक्ष्य स्वस्येव ये जनाः।
त्रपन्ते ते महात्मानः शीलसंकोचमूर्तयः॥५॥
निन्दितैः साधनैर्नापि राज्यं गृहृन्ति साधवः।
उपेक्षां तेऽत्र तन्वन्ति कीर्तिकान्तानुरागिणः॥६॥
लज्जात्राणाय मुश्चन्ति निजाङ्गं भद्रवृत्तयः।
न त्यजन्ति हियं वा ते प्राप्तेऽपि प्राणसंकटे॥७॥
परो हि त्रपते यस्मात् ततो यो नैव लज्जते।
पतितः स नरो नूनं ततो जिहेति भद्रता॥८॥
विस्मृताश्चेत् कुलाचाराः कुलभ्रष्टोऽभिजायते।
लज्जायां किन्तु नष्टायां सर्वे नश्यन्ति सद्गुणाः॥९॥
लज्जावारि मनुष्यस्य चक्षुर्भ्यां किल चेच्च्युतम्।
जीवनं भरणं तस्य काष्ठपुत्तलसन्निभम्॥१०॥