सामग्री पर जाएँ

कुरल-काव्य/परिच्छेदः १०७ भिक्षाभीतिः

विकिस्रोत से
कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ १०७

 

 

परिच्छेदः १०७
भिक्षाभीतिः

अभिक्षुको वरीवर्ति भिक्षोः कोटिगुणोदयः।
याचनास्तु वदान्ये वा निजादधिगुणे च वै॥१॥
भिक्षया जीवनं कुर्यान् नरो यस्यैष निश्चयः।
सृष्टोः स च विधातापि बम्भ्रमीतु भवै भवै॥२॥
निर्लज्जेष्वपि निर्लज्जः सोऽस्ति कापुरुषः परः।
यो ब्रूते भिक्षया नूनं नाशयिष्ये स्वनिःस्वताम्॥३॥
न याचते परात् किश्चिद् यो नरो निर्धनोऽपि सन्।
मही तस्य कृते स्वल्पा धन्यं तस्यात्मगौरवम्॥४॥
यड्भोजनं स्वपाणिभ्यामर्ज्यते श्रमपूर्वकम्।
जलाच्चेद् द्रवीभूतं स्वादीयः किन्तु भक्षणे॥५॥
एकोऽपि याचना शब्दो जिह्वाया निकृतिः परा।
वरमस्तु स शब्दोऽपि पानीयार्थहि गोः कृते॥६॥
एकं हि याचकान् याचे मा याचध्वं कदाशयान्।
अद्यश्वो ये तु कुर्वन्ति साधयन्ति न चेप्सितम्॥७॥
याचनाश दपोतस्यादातुर्वै कालयापनम्।
शिलासंघातसंकाशं जायते भंगकारणम॥८॥
भाग्यं याचनवृत्तीनां समीक्ष्यात्मा विकम्पते।
वीक्ष्यावज्ञा पुनस्तेषां म्रियते ध्रुवमेव सः॥९॥
निलीनाः कुत्र तिष्ठन्ति प्राणास्तस्ये निषेधिनः।
धिक्कारं किन्तु श्रुत्सैव ते निर्यान्त्यर्थिनस्तनोः॥१०॥