कुरल-काव्य/परिच्छेदः २६ निरामिषजीवनम्
परिच्छेदः २६
निरामिषजीवनम्
अद्यते येन मांसं हि निजमांसविवृद्धये।
नैव संभाव्यते नूनं करुणा तस्य मानसे॥१॥
यथा धनं न तत्पार्श्वे व्यर्थं यो व्ययते नरः।
मांसाशिनस्तथा चित्ते दयास्तित्यं न दृश्यते॥२॥
मांसमास्वाद्यते येन निर्दयेन दुरात्मना।
न श्रेयसि मनस्तस्य लुण्ठाकस्येव शस्त्रिण:॥३॥
असंशयं महत् क्रौर्यं जीवानां खलु हिंसनम्।
परं पापस्य घोरत्वं यन्मांसं भुज्यते जनै:॥४॥
नियमेन मनुष्यस्य मांसत्यागे सुजीवनम्।
अन्यथा नरकद्वारं न निर्गन्तुमनावृतम्॥५॥
यदि नैव भवेल्लोके मांसास्वादस्य कामना।
तर्हि नैव भवेल्लोके मांसस्य खलु विक्रयः॥६॥
परस्यापि विजानीयात् स्वस्येव निधने व्यथाम्।
सकृदेव नरो भूयो न कुर्याज्जीवहिंसनम्॥७॥
मिथ्यात्वत्यजनाद् यस्य हृदयं न्यायसंगतम्।
नासौ शवबुभुक्षुः स्यात् प्राणैः कण्ठगतैरपि॥८॥
हिंसायाः पिशिताच्चैव घृणा यस्यास्ति मानसे।
कोटियज्ञफलं नित्यं लभ्यते तेन साधुना॥९॥
आमिषाज्जीवघाताच्च विरतिर्यस्य धीमतः।
पाणी संयोज्य सम्मानं कुरुते तस्य विष्टपम्॥१०॥