कुरल-काव्य/परिच्छेदः २८ धूर्तता

विकिस्रोत से

[ २८ ] 

परिच्छेदः २८
धूर्तता

प्रतारणमयीं वृत्ति वीक्ष्य तस्यैव मायिनः।
भौतिकाङ्गानि देहान्तस्तूष्णीं[१] भूत्वा हसन्ति तम्॥१॥
कोऽर्थः प्रभाववत्यापि नरस्य मुखमुद्रया।
यदि सैब विजानाति स्वचित्तं शाठ्यदूषितम्॥२॥
तपस्विवेशमाधाय कातर्यं येन सेव्यते।
सिंहचर्मपरिच्छन्नस्तृणभोजी स रासभः॥३॥
धर्मेणाच्छादितस्तिष्ठन् स्वैराचारी हि पातकी।
गुल्मेनान्तर्हितो गृह्णन् विष्किरानिव[२] नाफलः[३]॥४॥
शुचिंमन्यः कुधीर्दम्भी मायया धर्मसेवकः।
देहान्ते विलपत्येष हा हा नैव शुभं कृतम्॥५॥
बहिस्त्यजति मायावी किल्विषं नैव चेतसा।
तथाप्याडम्बरो भूयान् दृश्यते निष्ठुरात्मनः॥६॥
कृष्णतुण्डी यथा गुञ्जा बहिरेव मनोहरा।
सुन्दरोऽपि तथा धूर्तों दूषणैर्दूषिताशयः॥७॥
एवं हि बहवो लोका मनो येषां न पावनम्।
परं तीर्थकृतस्नाना भ्रमन्ति ज्ञानिसन्निभाः॥८॥
दर्शने सरलो वाणः किञ्चिद्वक्रश्च तुम्बुरुः।
नराकृतिमतो हित्वा पश्य तत्कार्यपद्धतिम्॥९॥
लोकनिन्द्यानि कार्याणि येन त्यक्तानि धीमता।
किं जटाधारणैस्तस्य मुण्डनैर्वा महात्मनः॥१०॥

  1. देहमध्ये,
  2. पक्षिण,
  3. व्याध।