कुरल-काव्य/परिच्छेदः ४१ शिक्षाया अवहेलना
परिच्छेदः ४१
शिक्षाया अवहेलना
अध्यास्ते संसदः पीठं पूर्णशिक्षामुपेक्ष्य यः।
शारीपटं विना सोऽयमक्षैर्दीव्यति धूर्तधीः॥१॥
अनभ्यस्य श्रुतं यो वा काड्क्षते वाग्ग्मिगौरवम्।
युवसु ख्यातिसाकाङ्क्षानुरोजा' रमणीव सः॥२॥
सुशिक्षितानां पुरो धैर्यान् मूर्खश्वेन्मौनमास्थितः।
गण्यते शिक्षितो लोकैर्विदुषां सोऽपि योगतः॥३॥
कियानपि भवेद् धीमान् शिक्षाशून्यो हि मानवः।
आद्रियते परं नैव विद्वद्भिस्तस्य मंत्रणा॥४॥
अवहेलितशिक्षो यः पण्डितं मन्यते निजम्।
सुस्पष्टं सोऽपि लज्जेत यदा भाषेत संसदि॥५॥
अशिक्षितजनस्याहो दशोषरमहीनिभा।
स जीवत्यतो नास्ति वार्ता तद्विषयेऽपरा॥६॥
विदुषां वैभवहीनत्वं मनसे नैव रोचते।
आढ्यता किन्तु मूढानामप्रियास्ति ततोऽधिका॥७॥
भव्यानि सूक्ष्मतत्वानि यद्बुद्धिर्नावगाहते।
तद्देहस्य सुसौन्दर्य मृण्मृर्तेरिख मण्डनम्॥८॥
उच्चवंशप्रसूतोऽपि लघुतामेस्पशिक्षितः।
विद्यावृद्धः कुवंश्योऽपि लभते किन्तु गौरवम्॥९॥
पशुभ्योऽयं नरो यावान् साधुर्भवति भूतले।
अशिक्षितेभ्यो वरस्तावान् शिक्षितोऽप्यस्ति विभुतः॥१०॥
१. उरोजहीना।