सामग्री पर जाएँ

कुरल-काव्य/परिच्छेदः ७० नृपाणां समक्षे व्यवहारः

विकिस्रोत से
कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ ७०

 

 

परिच्छेदः ७०
नृपाणां समक्षे व्यवहारः

नातिदूरसमीपस्थो नृपं सेवेत पण्डितः।
शीतबाधानिवृत्यर्थ यथाग्नि सेवते जनः॥१॥
नृपस्याभीष्टवस्तूनां लालसा स्यज दूरतः।
ततो बैभवसंप्राप्तेरेषमंत्रोऽस्त्यबाधितः॥२॥
विरागं भूपतेः प्राप्तुं यदि त्वं नैव वाञ्छसि।
मुश्च तर्हि महादोषान् यतः शङ्कास्ति दुम्त्यजा॥३॥
राज्ञः पुरो न केनामा कर्तव्यं कर्णभाषणम्।
स्मितेङ्गिते च नो कार्ये आत्मनोभूतिमिच्छता॥४॥
निलीय शृणुयान्नैव वार्ता काञ्चिन् महीपतेः।
यत्नश्चापि न कर्तव्यस्तद्गुह्यस्याबोधने॥५॥
कालोऽस्ति सांप्रतं कीद्दक् प्रकृतिश्चास्य कीदृशी।
इति पूर्व समालोच्य वाचा तदनुमोदयेत्॥६॥
मोदो भवति याः श्रुत्वा बाचस्ता व्याहरेन् नृपम्।
यामिश्च कोऽपि लाभो न पृच्छयभानो न ता वदेत्॥७॥
बन्धुमल्पवयस्कं वा मत्वा भूप न हेडताम्।
महती देवता ह्येषा नररूपेण तिष्ठति॥८॥
निर्द्वन्द शुद्धदृष्टिर्यों लब्धभूपप्रसादकः।
न तत्कार्य स कुर्वीत रुष्टः स्याद् भूपतिर्यतः॥९॥
घनिष्ठो दृढमित्रञ्च वर्तते मम भूपतिः।
इति मत्वापकृत्ये यो रतो नूनं स नश्यति॥१०॥