सामग्री पर जाएँ

कुरल-काव्य/परिच्छेदः ९६ कुलीनता

विकिस्रोत से
कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ ९६

 

 

परिच्छेदः ९६
कुलीनता

निसर्गादभिजातानां भवतो द्वौ हि सद्गुणौ।
हृद्या लज्जास्ति तत्रैको द्वितीयश्च यथार्थता॥१॥
सदाचारात् सुलज्जायाः सत्यस्नेहाच्च सर्वदा।
नैवस्वलन्ति सद्वंश्याः ख्यातमेवेति भूतले॥२॥
कुलीनो हि भवत्येव चतुर्भिः सद्गुणैर्युतः।
हृष्टास्यो मधुरालापी गर्वशून्य उदारधीः॥३॥
कोटिसंख्यकमुद्राणां लाभोऽपि किल चेद्वरम्।
तथापि नो निजं नाम दूषयन्ति सुवंशजाः॥४॥
पुरातनमहावंशजातान् पश्यन्तु भो जनाः।
न त्यजन्ति गतैश्वर्या अपि ये स्वामुदारताम्॥५॥
प्रतिष्ठितं कुलाचारं रक्षितुं ये समुद्यताः।
ते कुकृत्यं न कुर्वन्ति भवन्ति न च मायिनः॥६॥
शुद्धान्वये प्रसूतस्य दोषः सर्वैः समीक्ष्यते।
चन्द्रविम्बे यथा लग्नः कलङ्कः कैर्न दृश्यते॥७॥
विशुद्धकुलजातोऽपि भाषते गर्हितं यदि।
आशङ्का तर्हि कुर्वन्ति लोकास्तज्जननेऽपि च॥८॥
आख्याति भूमिमाहात्म्यं यथा वृक्षः फलश्रिया।
वाणी वक्ति तथा लोके मनुष्यस्य कुलस्थितिम्॥९॥
सलज्जो भव चेदिच्छा साधुत्वे सद्गुणेषु च।
औचित्येन[] समं ब्रूहि चेदिच्छा वंशगौरवे॥१०॥

  1. दानप्रियवचनाभ्धाम्।