परिच्छेदः ९७
प्रतिष्ठा
आत्मनः एतनं यस्मात् तस्माद् भवतु दूरगः।
अपि चेत्प्राणरक्षायै तस्यात्यावश्यकी स्थितिः॥१॥
कामयन्ते निजां कीर्ति जीवनोपरमेऽपि ये।
अपि प्रभाववृद्धयर्थमयोग्यं कुर्वते न ते॥२॥
समृद्धौ कुरु है भब्ध विनयश्रीसुवर्षणम्।
क्षीणस्थितौ तु सम्माने दृष्टिमान् भव सर्वदा॥३॥
कुकृत्यैर्दूषिता येन स्वप्रतिष्ठा महीतले।
स मनुष्यस्तथा भाति कर्तिता अलका यथा॥४॥
गुञ्चतुल्यमपि स्वल्पं कुर्याच्चेत् किल्विषं नरः।
क्षुद्रो भवति भूत्वापि प्रभावे गिरिसन्निभः ॥५॥
न यशो वर्द्धते यस्मान् नापि स्वर्गश्च लभ्यते।
घृणाकः कथं तस्य भक्त्या जीवितुमिच्छसि॥६॥
घृणाकर्तुः पदर्शादिदमेव वरं ध्रुवम्।
यद्भाग्ये लिखितं भोक्तुं सज्जः स्यान् निर्विकल्पकः॥७॥
अनर्घ वस्तु किं कायो यन्मोहान् मोहिता जनाः।
रक्षन्ति तं महायत्नैर्विक्रीयापि स्वगौरवम्॥८॥
आत्मानं हन्ति केशेषु कान्तारे चमरी यथा।
स्वाभिमानी तथा हन्ति मानार्थं स्वस्य जीवितम्॥९॥
हते माने पुनर्लोंके यो न जीवितुमिच्छति।
लोकास्तस्य यशोवेदौ क्षिपन्ति कुसुमाञ्जलिम्॥१०॥