परिच्छेदः १०५
दरिद्रता
दारिद्रयादधिकं लोके वर्तते किन्नु दुःखदम्।
इति पृच्छास्ति चेत्तर्हि शृणु सैवास्ति निःस्वता[१]॥१॥
हतदैवं हि दारिद्रयमस्त्येवेहाति दुःखदम्।
पारलौकिकभोगानामप्यास्ते किन्तु घातकम्॥२॥
तृष्णानुबन्धिदारिद्रयं सत्यं गर्हृातिगर्हितम्।
वंशस्य गुरुतां हन्ति वाचो यच्च मनोज्ञताम्॥३॥
हीनस्थितिर्मनुष्यस्य महती कष्टदायिनी।
हीना इव प्रभाषन्ते सुवंश्या अपि यद्वशात्॥४॥
अभिशापोऽस्ति दैवस्य दारिद्रयापरनामकः।
निलीनाः सन्ति यस्याधो विपदो हि सहस्रशः॥५॥
रिक्तस्य न हि जागर्ति कीर्तनीयोऽखिलो गुणः।
अलमन्यैर्न लोकेभ्यो रोचते तत्सुभाषितम्॥६॥
आदौ रिक्तः पुनर्धर्माद्धीनो यस्तु पुमानहो।
पौरुषं तस्य संवीक्ष्य तन्मातैव जुगुप्सते॥७॥
किन्न मुञ्चसि दुःखार्तं मामद्यापि दरिद्रते।
ह्य एव हि महादुष्टे कृतः सामिमृतस्त्वया[२]॥८॥
तप्तशूलेषु सुध्वापः कदाचित् सम्भवत्यहो।
आकिञ्चन्ये च मर्त्यस्य सुखनिद्रा न संभवा॥९॥
उत्सृजन्ति निजप्राणान् यदि नो निर्धना नराः।
तर्ह्मन्येषां वृथा याति भक्तं पानश्च सैन्धवम्॥१०॥