परिच्छेदः ३८
भवितव्यता
नरो दृढप्रतिज्ञः स्याद् भाग्यलक्ष्मीप्रसादतः।
स एव याति शैथिल्यं हतभागस्य दोषतः॥१॥
शक्तेर्हासो मनुष्याणां दुर्भाग्यात्सम्प्रजायते।
बुद्धेः स्फूर्तिस्तु लोकानां जागृते पुण्यकर्मणि॥२॥
कोऽर्थो ज्ञानेन जातेन चातुर्येणापि को गुणः।
अन्तरात्मा यतो नित्यं सर्वोपरि प्रभाववान्॥३॥
द्वे वस्तुनीह संसारे विभिन्ने सर्वथा पृथक्।
एकं तत्र धनाढ्यत्वं द्वितीयं साधुशीलता॥४॥
शुभोऽप्यशुभतां याति सति भाग्ये पराङ्मुखे।
अनुकूले सति त्वस्मिन्त्रशुभोऽयि शुभायते॥५॥
यत्नेनापि न तद् रक्ष्यं भाग्यं नैव यदिच्छति।
भाग्येन रक्षितं वस्तु प्रक्षिप्तं नापि नश्यति॥६॥
महाशासकदैवस्य शासनातिक्रमेण वै।
उपभोक्तुं न शक्तोऽस्ति कोट्यधीशो वराटिकाम्॥७॥
निर्धना अपि जायन्ते कदाचित् त्यागबुद्धयः।
भाविदुःखकृते दैवं परं तत्रास्ति बाधकम्॥८॥
सुखे न जायते येषामुद्वेलो हर्षसागरः।
दुःखं प्राप्य कथं लोके शोकमग्ना भवन्ति ते॥९॥
दैवस्य प्रवला शक्तिर्यतस्तद्ग्रस्तमानवः।
यदैव यतते जेतुं तदैवाशु स पात्यते॥१०॥