पृष्ठ:कुरल-काव्य.pdf/७९

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
५४]
]
 

 

परिच्छेदः ५४
निश्विन्ततात्यागः

अचिकित्स्याल्पसन्तोषाञ्जाता चिन्ताविहीनता।
नूनं निन्द्यतमा लोके निस्सीमक्रोधतोऽप्यहो॥१॥
यथैव प्रतिभां हन्ति लोके दुष्टा दरिद्रता।
वैभवञ्च तथा हन्ति निर्भयस्त्यानभावना[१]॥२॥
नित्यनिश्चिन्तचित्तानां वैभवं नैव जायते।
अन्तिमो ह्येष सर्वेषामाम्नायानां विनिश्चयः॥३॥
कातरस्य जनस्याहो कोऽर्थो दुर्गेण सिध्यति।
को गुणः प्रचुरैरर्थैरेवमेव प्रमादिनः॥४॥
प्रमत्तपुरुषो नित्यं स्वरक्षायै निसर्गतः।
दोषं करोति पश्चाञ्च संकटस्थो विषीदति॥५॥
प्रागेव ना[२] प्रबुद्धश्वेत् सर्वैं: साकं सुवृत्तये।
अतो नास्ति परा काचित् सुवार्ता जगतीतले॥६॥
समाहितस्य सर्वत्र यस्यास्ति मनसो गतिः।
अशम्यं तस्य कि लोके वर्तते गुणशालिनः॥७॥
विजैः प्रदर्शितं कार्यमाशु कुर्वीत भृपतिः।
अन्यथा जन्मपर्यन्तं प्रायश्चित्तं न विद्यते॥८॥
प्रमादेन यथा भद्र व्यामोहो मानसे भवेत्।
तेन दोषेण नष्टानां चिन्त्यस तदा दशाम्॥९॥
विधत्ते यः पुरो[३] दृष्टेनिजध्येयं निरन्तरम्।
सहजा एव तत्पक्षे सिद्धाः सन्ति मनोरथाः॥१०॥


  1. आलस्यम्।
  2. नर.।
  3. अग्रे।