पृष्ठ:कुरल-काव्य.pdf/८०

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।

 

परिच्छेदः ५५
न्यायशासनम्

सम्यविचार्य निष्पक्षो भूत्वा चापि महीपते।
नीतिज्ञसम्मतः शुद्धः कर्तव्यो न्यायविस्तरः॥१॥
जीवनस्य प्रदानाय लोको मेघं यथेक्षते।
न्यायप्राप्त्यै तथा चायं राजदण्डं समीक्षते॥२॥
राजदण्डो यथेहास्ति मुख्यो धर्मस्य रक्षकः।
राजदण्डस्तथैवास्ति विद्यानां परिपालकः॥३॥
स्निग्धदृष्टचैव यो राजा स्वराज्यं शास्ति सर्वदा।
तं भूपति कदापीह राजश्रीर्नैव मुश्चति॥४॥
न्यायदण्डं समादत्तें भूपतियों यथाविधि।
तद्रराज्ये विपुला सस्यवृद्धिः स्याञ्च सुवर्षणम्॥५॥
महीपतेः खरः कुन्तो विजये नास्ति कारणम्।
विशुद्धो न्याय एवास्ति विजये किन्तु कारणम्॥६॥
भुवं रक्षति भूपालो गुणयुद्धेन तेजसा।
विशुद्धो राजदण्डश्च तं नृपं पाति सर्वदा॥७॥
प्रजाभ्यो योऽस्ति दुर्दर्शों न्याये नापि विचारकः।
अरिणा स च हीनोऽपि स्तपदाद् भ्रश्यते नृपः॥८॥
अन्तरस्थास्तथा बाह्यान् दण्ड्यान् दण्डेन दण्डयन्।
भूपः करोति कर्तव्यमतस्तस्मिन्न दूषणम्॥९॥
परित्राणाय साधूनां श्रेयान् दुष्टयधस्तथा।
तृण्योच्छेदो[१] यथा क्षेत्र शालीनां हि समृद्धये॥१०॥


  1. तृणसमूहहोल्पाठनम्।